स्व॒र॒न्या॒याः

साधा॑रणम्

सं॒ज्ञाश्च॑ स्व॒राङ्क॑नं च॒ पूर्वे॑ ज्ञात॒व्याः॑। उदात्तादनुदात्तस्य स्वरितः। ते। इत्य॒यम् उ॒दात्तः॑। भ॒र॒ताः। इत्यत्रान्त॑ उ॒दात्तः॑। संहि॑तायां॒ किम्। ते भ॑र॒ताः। स्व॒रि॒तो जा॒तः। नोदात्तस्वरितोदयमगार्गकाश्यपगालवानाम्। उ॒दात्त॑परस्य स्वरि॒तप॑रस्य॒ वानु॑दात्तस्य स्वरि॒तो न भ॑वति। ते दे॒वाः।