स्व॒र॒न्या॒याः

स्व॒र॒स॒न्धिः

एकादेश उदात्तेनोदात्तः। उ॒दात्ते॑न स॒हैका॑दे॒श उ॒दात्तः॑ स्यात्। इन्द्रोश्व॑म्। अव॑रं॒ क्व॑। क्वाव॑रम्। स्वरितो वानुदात्ते पदादौ। अनु॑दात्ते पदा॒दौ परे॑ स्वरि॒तो वा॑ स्यात्। दि॒वी॑व। एङः पदान्तादति इत्य॒नेन॒ विहि॑तः पूर्वरूपस्व॒रः स्व॑रि॒त ए॒व भ॑वति। ते॑ब्रुवन्।