स्व॒र॒न्या॒याः

प्रास्ता॑विकम्

स्व॒र॒वि॒ष॒यम् अजा॑नन् स्व॒राङ्क॑नं चिकी॒र्षुर् अना॑यासेन कृ॒तार्थो॑ भवे॒द् इत्य॒स्य स॑ञ्च॒यस्यैक॑तरं प्र॒योज॑नम्। इ॒मान्य॑वेक्षित॒व्या॑नि। स॒र्व॒नि॒य॒म॒ग्रह॑णम्। अ॒प॒वा॒द॒ग्रह॑णम्। सु॒खा॒व॒बो॒धः। अदो॑षः। यद्ये॒षु ही॒नं दृ॒श्येता॒यं स॑ञ्च॒यस्तद् अत्र॑↱ कथ्यताम्। इ॒दानीं॑ नियम॒ग्रह॑णे ही॒नम् ए॒व। अतो॒ भव॑ता॒ यत् प्र॒कर॑णम् इ॒ष्यते॑ प्रथ॒मं तद् उ॑च्यताम्।